VIDEHA

संस्कृतशिक्षणम्

In Uncategorized on जुलाई 8, 2009 at 1:13 अपराह्न

VIDEHA MAITHILI SANSKRIT TUTOR- XXII

संस्कृत शिक्षा च मैथिली शिक्षा च- २२

(मैथिली भाषा जगज्जननी सीतायाः भाषा आसीत् – हनुमन्तः उक्तवान- मानुषीमिह संस्कृताम्)

-गजेन्द्र ठक्कुरः

(आगाँ)

ENGLISH
संस्कृतम्
मैथिली
Has the Principal come?
प्राचार्यः आगतः किम्?
प्राचार्य एलाह की?
This year the examination commences in March.
अस्मिन् वर्षे परीक्षायाः आरम्भः मार्चमासे भविष्यति।
एहि बरख परीक्षा मार्च मासमे होएत।
See if the maths teacher is there.
गणितस्य अध्यापकः अस्ति किम् इति पश्यतु।
देखू तँ गणितक अध्यापक छथि की?
Day after tomorrow will be a holiday.
परश्वः विरामः भविष्यति।
परसू छुट्टी हएत।
How many students are there in your department?
भवतः विभागे कति छात्राः सन्ति।
अहाँक विभागमे कए टा छात्र छथि?
There are 30 students in my department.
मम विभागे त्रिंशत् छात्राः सन्ति।
हमर विभागमे ३०टा छात्र छथि।
What is your pay-scale?
भवतः वेतनश्रेणी का?
अहाँक वेतनश्रेणी की अछि?
Did you read the newspaper? The Government has accepted our demands.
वार्तापत्रं पठितवान् किम्? सर्वकारेण अस्माकम् अभियाचनाः अङ्गीकृताः।
अखबार पढ़लहुँ की? सरकार हमरा सभक माँग सभ मानि लेलक।
30% bonus has been announced.
त्रिंशत् प्रतिशतम् अधिवेतनम् उद्घोषितम् अस्ति।
३०% अधिवेतनक घोषणा भेल अछि।
This rule will be implemented from the next-year.
एतस्य नियमस्य अन्वयः अग्रिमवर्षतः भविष्यति।
ई निअम अगिला बरखसँ लागू होएत।
I am in-charge of the examination department.
परीक्षा-विभागस्य उत्तरदायित्वं मम अस्ति।
हमरा लग परीक्षा विभागक भार अछि।
Who is the head of the sports department?
क्रीडा-विभागस्य प्रमुखः कः अस्ति?
क्रीड़ा विभागक प्रमुख के छथि?
We have to organize a science workshop.
विज्ञानकार्यशाला आयोजनीया अस्ति।
हमरा सभकेँ विज्ञान कार्यशालाक आयोजन करबाक अछि।
Our students got the first prize in the inter-school dance competition.
आन्तर्शालेय-नृत्यस्पर्धायाम् अस्माकं छात्राः प्रथम-पुरस्कारं प्राप्तवन्तः।
अन्तर-विद्यालय नृत्य प्रतियोगितामे हमरा सभक छात्रकेँ प्रथम पुरस्कार भेटलन्हि।
Parent-teacher meeting will be on next Sunday.
अग्रिमे रविवासरे पालक-शिक्षकमेलनं भविष्यति।
अगिला रविकेँ अभिभावक-शिक्षक मीटिंग होएत।
I will call his mother.
एतस्य मातरम् आह्वयिष्यामि।
हम ओकर माएकेँ बजेबए।
I have given application for leave.
अहं विरामस्य निवेदनपत्रं दत्त्वान् अस्मि।
हम छुट्टीक आवेदन देने छी।
He has taken a half-day leave today.
सः अद्य अर्ध-दिनस्य विरामं स्वीकृतवान्।
ओ आइ आध-दिनुका छुट्टी लेने अछि।
Again today the clerk has not come.
लिपिकारः अद्य न आगतवान् एव।
आइ फेर क्लर्क नञि आएल।
Do you have a class now?
इदानीं भवतः कालांशः अस्ति किम्?
आइ अहाँक वर्ग अछि की?
No, I am free now.
न, इदानीम् अहं कार्यरहितः अस्मि।
नञि आइ हम बिना काजक छी।
If you have any doubt please ask.
संशयः अस्ति चेत् पृच्छतु।
संशय अछि तँ पूछू।
Have you understood?
ज्ञातं किम्?
बुझलहुँ की?
Have you taken notes?
टिप्पणीं लिखितवन्तः किम्?
टिप्पणी लिखलहुँ की?
It is enough for today.
अद्य एतावदेव पर्याप्तम्?
आइ लेल एतेक पर्याप्त अछि।
Let us stop at the end of this paragraph.
एतस्य अनुच्छेदस्य अन्ते समापयामः।
एहि अनुच्छेदक अन्तमे हम सभ समाप्त करब।
Please, say it once again.
कृपया, पुनः एकवारं वदतु।
कृपया एकरा एक बेर फेर कहू।
Read this well before coming to class tomorrow.
श्वः कक्ष्या-आगमनतः पूर्वम् एतत् पठित्वा आगच्छतु।
काल्हि वर्ग अएबासँ पूर्व एकरा एक बेर नीक जकाँ पढ़ि लेब।
I did not understand this.
एतत् अहं न ज्ञातवान्।
हम ई नहि बुझलहुँ।
Hey! You study well, do not you?
किं भोः सम्यक् पठति खलु?
यौ, अहाँ तँ नीक जकाँ पढ़िते छी।
You have not yet submitted your assignment.
भवान् भवतः ’विशेषकार्यम्’ इतोऽपि न दत्तवान्।
अहाँ अपन विशेषकार्य अखन धरि नहि जमा करेने छी।
Have you prepared the question paper?
प्रश्नपत्रिका सज्जीकृता किम्?
अहाँ प्रश्नपत्रक तैयारी केलहुँ की?
Yes, I have started.
आम्, आरम्भं कृतवान् अस्मि।
हँ, प्रारम्भ कएने छी।
He has not answered a single question correctly.
एषः एकम् अपि प्रश्नं सम्यक् न उत्तीर्णवान्।
ओ एकोटा प्रश्नक ठीक उत्तर नहि देलक।
Does anyone know the answer?
कोऽपि उत्तरं जानाति किम्?
ककरो एकर उत्तर बुझल अछि?
Hey, what is the noise about?
किं भोः कोलाहलः?
की यौ, कथीक हल्ला अछि?
The students these days!
इदानीन्तन-च्छात्रास्तु!
आइ काल्हिक विद्यार्थी!
How is the result this year?
एतस्य वर्षस्य फलितांशः कथम् अस्ति?
एहि बरखक परिणाम केहन रहल?
Better than last year’s.
गतवर्षस्य अपेक्षया उत्तमम्।
पछिला सालक अपेक्षा उत्तम।
How did he get such high marks?
सः कथम् एतावतः अङ्कान् प्राप्तवान्?
ओ एतेक नीक अंक कोना प्राप्त कएलक।
Examiner’s large heartedness.
परीक्षकाणाम् औदार्यम्।
परीक्षकक उदारतासँ।
When does the summer vacation begin?
ग्रीष्मविरामस्य आरम्भः कदा?
गरमी-तातिल कहियासँ होएत?
35 people have come for the interview.
साक्षात्कारार्थं पञ्चत्रिंशत् जनाः आगतवन्तः।
३५ गोटे साक्षात्कार लेल आएल छथि।

सम्भाषणम्

मम समीपे बहु धनम् अस्ति, किन्तु अहम् बहिः न प्रकटयामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् वित्तकोषे न स्थापयामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् अपव्ययम् न करोमि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् वाहनं न क्रीणामि।

मम समीपे बहु धनम् अस्ति, किन्तु अहम् अन्येनः न ददामि।

विद्यालयः अस्ति किन्तु अहम् विद्यालय न गतवान्।

परीक्षा समीपा अस्ति किन्तु पठनम् न समाप्तम्।

अहम् पायसम् खादितुम् इष्टवती किन्तु अंबा न दत्तवती।

श्रीमान् अन्तः आगच्छामि वा- आगच्छतु।

एतत् किम् फलम्- स्वादुफल।

एषा का- सा छुरिका।

अहम् स्वादुफलस्य उपरि छुरिका पातयामि।

निश्चयेन पातयामि-निश्चये पतति।

न पतति।

इदानीम् कः स्वादुफलस्य उपरि छुरिका पातयति। अहम् निश्चयेन पातयामि।

सः प्रायशः न पातयति। एषः न पातयति। अहम् उक्तवान् किल- भवान् निश्चयेन न पातयति।

अहम् निश्चयेन मंत्री भविष्यामि।

अहम् निश्चयेन सत्कार्यं करोमि।

अहम् निश्चयेन अकार्यं न करोमि।

अहम् निश्चयेन भविष्ये संस्कृतं पाठयामि।

अहम् निश्चयेन अद्य निद्रां करोमि।

अद्य कक्षां प्रति वारुणि विलंबेन आगतवती।

तस्य कारणम् वयं उहित्वा वदामः- प्रायशः उपयोगम् कर्तु वाक्यम् वदामः।

प्रायशः चलनचित्रं गतवती आसीत्।

प्रायशः मार्गे वाहनसम्मर्दः आसीत्।

प्रायशः सा अस्वस्था आसीत्।

अहम् ग्रंथालयम् गतवती आसम्- अतः अहम् विलंबेन आगतवती।

प्रायशः अहम् श्वः देवालयं गमिष्यामि।

प्रायशः भारतीयः शान्तिप्रियः।

इदानीम् वयम् अन्यम् एकम् अभ्यासं कुर्मः।

अहं कृष्णफलके चित्रलेखनस्य आरम्भम् करोमि। एकां-एकां लिखामि अथवा किञ्चित् वर्धयामि। तदा भवन्तः वाक्यानि वदन्ति। प्रायशः भवान् हंसस्य चित्रम् लिखति।

पति-पत्ब्याः चित्रम् लिखति।

निश्चयेन भवान् नौका चित्रम् लिखति।

निश्चयेन भवान् मीनस्य चित्रम् लिखति।

निश्चयेन भवान् फलस्य चित्रम् लिखति।

निश्चयेन् भवान् पर्णस्य चित्रम् लिखति।

एषः जीवने अग्रे कः भविष्यति- इति ऊहं कुर्वन्तु। वाक्यं वदन्तु। वाक्ये निश्चयेन अथवा प्रायशः द्वयोर्मध्ये एकं शब्दं योजयित्वा वाक्यं वदन्तु।

सः निश्चयेन् चोरः भविष्यति।

सः निश्चयेन् सैनिकः भविष्यति।

सः निश्चयेन् वैद्यः भविष्यति।

सः प्रायशः विमानचालकः भविष्यति।

सः प्रायशः विदेश प्रयाणं करिष्यति।

सः प्रायशः भोजनप्रियः/ मूर्खः।

भवान् कः भविष्यति।

अहं निश्चयेन् विद्यालयस्य संस्थापकः भविष्यामि।

एतत् लघु पुस्तकम्।

एतस्य पुस्तकस्य अपेक्षया एतत् पुस्तक वृहत् अस्ति।

काकस्य अपेक्षया शुकः सुन्दरः अस्ति।

एतस्याः वेण्याः अपेक्षया एतस्याः वेणी दीर्घा अस्ति।

गिरिजायाः अपेक्षया सावित्री उन्नता अस्ति।

एतस्य दण्डस्य अपेक्षया एषः दण्डः दीर्घः अस्ति।

केरलस्य अपेक्षया कर्णाटकं वृहत् अस्ति।

पाकिस्तानस्य अपेक्षया भारतदेशः वृहत् अस्ति।

अजस्य अपेक्षया गजः स्थूलः अस्ति।

मम घट्याः अपेक्षया वारुण्याः घटी सुन्दरी अस्ति।

मम अपेक्षया लता उन्नता अस्ति।

अर्जुनस्य अपेक्षया एकलव्यः उत्तमः धनुर्धरः।

दुर्जनः सहवासोपेक्षया सज्जनः सहवासः उत्तमः।

१-भोः निबन्धानाम् संग्रहः अस्ति वा।

२-अस्ति। तत्र पश्यतु।

१-एतस्य अपेक्षया वृहत् पुस्तकं नास्ति वा।

२-किमर्थम्?

१-विश्वविद्यालये निबन्ध स्पर्धा अस्ति। तदर्थम् अधिक विषयसंग्रहः करणीयः अस्ति।

२-तथां। आगच्छतु, ददामि।

१-एतत् पुस्तकं पश्यतु। तस्य अपेक्षया उत्तमम् अस्ति।

१-उत्तमम्। मम सख्याः समीपे एतत् पुस्तकं नास्ति। तस्या अपेक्षया मम अधिक विषय संग्रहं कर्त्तुम शक्नोमि।

२-यदि सा अन्यत् पुस्तकं प्राप्नोति तर्हि भवत्याः अपेक्षया अधिकं विषयसंग्रहं करोति।

१-एवं वा।

२-परन्तु अस्माकं ग्रंथालयस्य अपेक्षया उत्तमः ग्रंथालयः अन्यः नास्ति। अतः सा तत् प्राप्तुम् न शक्नोति।

१-भवतु। अहम् इदानीम् गच्छामि। श्वः सर्वेषाम् अपेक्षया शीघ्रम् अत्रागत्य सर्वम् पठामि।

सुभाषितम्

जलबिन्दु निपातेन् क्रमशः पूर्ण्यते घटः।

स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥

श्रुतस्य सुभाषितस्य अर्थः एवम् अस्ति। क्रमशः जलं पतति-नलिकातः। परन्तु पात्रम् अवश्यं पूर्णं भवति। यद्यपि बिन्दुशः पतति अल्पम् इति जनं न त्यजति। क्रमशः पात्रं पूर्णं भवति। एवमेव विद्यायाः संग्रहः अपि क्षणशः/ कणशः भवति- सः अग्रे पूर्णः भविष्यति। एवमेव धर्मकार्याणि अपि सः कुर्वन् गच्छतु जीवने अवश्यम्। धर्मनिष्ठः भवति। एवमेव विद्यायाः संपादनं-धनस्य संपादनम् अपि तथैव। कणशः धनसंपादनं करणीयम्। एक नानकं, नानक्-द्वयं, नानकत्रयं इति न त्यक्त्तव्यम्। सर्वम् अपि संग्रीहश्य संग्रीह्य सः अग्रे प्रभूतं धनं संपादिष्यति। एवं सुभाषितकारः वदति- विद्यायाः/ धनस्य/ धर्मस्य संपादनं क्रमशः भवति सः पूर्णः भवति।

कथा

कावेरी नद्याः तीरे एकं गुरुकुलम्। गुरुकुले वटवः (बालकाः) सन्ति। ते प्रतिदिनं नियमितं जीवनं कुर्वन्ति। प्रातः कालतः रात्रिपर्यन्तम् नियमितं जीवनम्। उत्तिष्ठन्ति, योगासनं आदि कुर्वन्ति, अध्ययनं कुर्वन्ति, एवं पवित्रं जीवनं तेषाम्। भिक्षाटनं तेषां कार्यम्। बहिः गच्छन्ति भिक्षां याचित्वा गृहम् आनयन्ति। मिलित्वा सर्वे खादन्ति। एवं गुरुकुलस्य नियमः (पद्धतिः)। एकदा सुन्दरः नाम् बालकः भिक्षाटनार्थं बहिः गच्छति। भिक्षाटनं कृत्वा सर्वं संगृह्य प्रत्यागच्छति। आगमन् समये मार्गे एकं शिलाखण्डं पश्यति। सुन्दरः शिलाखण्डः- नीलवर्णः-कंदुका आकारेण अस्ति- अतः तस्य कुतुहलं भवति। हस्तेन् गृह्णाति तस्य समीपे स्थापयति। क्रीडार्थं वा उपयोगं भवति- इति चिन्तयति। गुरुकुलम् आगच्छति। तस्य मित्राणि सन्ति। मित्रेभ्यः दर्शयति। बालकाः शिलाखण्डं गृहित्वा क्रीडन्ति। एवं प्रतिदिनं सायंकाले शिलाखण्डं गृहीत्वा क्रीडन्ति। एकदा गुरुः पश्यति शिलाखण्डम्। सः सुन्दरम् आहूय पृच्छति- हे सुन्दरा। एतं शिलाखण्डं भवान् प्राप्तवान्। परन्तु एतेन् शिलाखण्डेन् इतः परम् भवान् न क्रीडतु। अन्येन शिलाखण्डेन् क्रीडतु। एतम् शिलाखण्डं गृहीत्वा भवान् आपणं गच्छतु। एतस्य विक्रयेणं करोतु। इति वदति। गुरोः आज्ञा। सः सुन्दरः आपणं गच्छति- शाकापणं गच्छति, प्रथमतः शाकापणिकम् पृष्टवान्- भवान् एताम् शिलाखण्डं क्रीणाति वा। आपणिकः वदति। नाणकद्वयं ददामि। तदा सः बालकः गुरुं पृच्छामि इति प्रत्यागच्छति। गुरुः वदति- भोः, इदानीम् पुनः अन्यत्र विचारयतु, विक्रेयणात् पूर्वं माम् पुनः एकवारं पश्यतु। इति वदति। सः तथैव बालकः अन्यत्र गच्छति। सुन्दरः क्रीडनक विक्रेतुः समीपं गच्छति। सः तम् विचारयति- एतस्य मूल्यम् कियत् ददाति- सः वदति- अहं रूप्यकंद्वयं ददामि। तदा बालकः पुनः गुरोः समीपम् आगच्छति। तदा गुरुः पुनः वदति- इदानीम् भवान् नगरान्तरं गच्छतु। तत्र विचारयतु। सः बालकः नगरं गच्छति- तत्र आभरणस्य आपणं पश्यति, आभरण विक्रेतारं पृच्छति- एतस्य शिलाखण्डस्य मूल्यम् कियत्। अहम् एतम् शिलाखण्डं विक्रेतुम् इच्छामि। सः आपणिकः परीक्षाम् करोति- सूक्ष्मतया। सः वदति। भो बाला। एतस्य शिलाखण्डस्य मूल्यम् अमूल्यम् अस्ति। यदि अहं आपणे स्थितस्य सर्वस्य आभरणस्य विक्रयेणं करोमि तथापि एतस्य शिलाखण्डस्य मूल्यं न भवति। तावद् अस्ति एतस्य शिलाखण्डस्य मूल्यम्। यदि भवान् विक्रेतुम् इच्छति- मया आपणः त्यक्तव्यः भवति। तदा बालकः अमूल्यं शिलाखण्डं गृहीत्वा पुनः गुरोः समीपं गच्छति। गुरुः वदति- भवता शिलाखण्डस्य मूल्यं ज्ञातव्यं चेत्- रत्न परीक्षकेन् भवितव्यम्। तदाएव शिलाखण्डस्य वास्तविक मूल्यं किमिति ज्ञायते। इति गुरुः वदति। पुनः वदति- पश्यन्तु। जनानां समीपे अत्यमूल्यं वस्तु अस्ति- जीवननामकम्। परन्तु ते मूल्यं न जानन्ति- यदि सम्यक् मूल्यं ज्ञात्वा व्यावहारन्ति, तेषां जीवनम् अपि अत्यमूल्यं भवति। एवं गुरुः कथा द्वारा संदेशं ददाति।

Advertisements

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

%d bloggers like this: