VIDEHA

संस्कृत भाषा शिक्षणम् 2

In संस्कृत, Samskrit, sanskrit on जुलाई 18, 2008 at 3:57 पूर्वाह्न

सुभाषितम्

संस्कृत साहित्ये सुभाषितानाम् नितराम वैशिष्ट्यम अस्ति। सुष्ठि भाषितम सुभाषितम। उत्तमम् वचनमेव सुभाषितः। अपार जीवनानुभवः सुभाषितेषु निहितः भवति।
वयम इदानीम एकं सुभाषितम् श्रुण्वः।

उद्यमनैव सिध्यंति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगा।
वयम् इदानीम यत सुभाषितम् श्रुतवन्तः तस्य अर्थः एवमस्ति।
मनुष्यःप्रयत्नम् न करोति चेत् किमपि फलम् न सिध्यति। केवलम् इच्छाः संति चेत् कार्यम् न सिध्यति। सिंहः अत्यंतं बलवानः अस्ति। सः मृगराजः अस्ति।तथापि सिंहः प्रत्नं करोति चेतेव आहारं प्राप्नोति। मृगः आगत्य स्वयमेव सिंहस्य मुखे न पतति।प्रत्नं न कुर्मः चेत् किंचिदपि फलम् न सिध्यति। वयमपि अवश्यं प्रत्नं कुर्मः।

कथा
अहम् इदानीम एकं कथा वदामि। लघु कथा सरलां कथा अस्ति।संस्कृते कथा श्रवणेन भाषाभ्यासः शीघ्रम् भवति। भवंताः सावधानेन कथाम् श्रुणवंतु।
एकः काकः अस्ति। सः काकः तृषितः अस्ति। तस्य बहु पिपासा भवति। जलम् पातव्यम इति इच्छा भवति। काकः जलस्य अंवेषणं करिति। अत्र पश्यति। तत्र पश्यति। सर्वत्र पश्यति। कुत्रपि जलं नास्ति। काकः अगे-अग्रे गच्छति। दूरे एकं घटं पश्यति।काकस्य बहुसंतोषः भवति। सः घटस्य समीपं गच्छति। घटस्य उपरि उपविशति। पश्यति। घटे जलम् अस्ति। परंतु स्वल्पं जलम् अस्ति। काकः जलम् पातुम न शक्नोति। किं करोमि-इति चिंतयति। सः काकः बुद्धिमानस्ति। सः अन्यत्र गच्छति। शिलाखण्डम् आनयति। घटे पूरयति। पुनः गच्छति। शिलाखण्डम् आनयति। पूरयति। एवमेव बहुवारः करोति।
जलम् उपरि-उपरि आगच्छति। जलं बहिः आगच्छति। काकस्य बहुसंतोषः भवति।सः जलं पिबति।आनन्देन जलं पिबति। अनन्तरं दूरं गच्छति।काकः चतुरः अस्ति खलु।चतुरः काकः।
कथायाः अर्थः ज्ञातः?

प्रयाण-गीतम्

पदं धरति प्रवर्धते, भारतीय वीर सैनिकः। पदे पदे दृश्यते, तस्य देशप्रेम गुणः। पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।
गायति देश भक्त्ति गीत,स्वतंत्रता रक्षकः। हस्ते अस्ति शोभितः त्रिवार्णिकः ध्वजः, पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।
मस्तके लेपित चन्दनः हस्ते अस्ति शस्त्रः, यतः हृदये वसति वीरता, शत्रु भवति क्षयः।
पदं धरति प्रवर्धते, भारतीय वीर सैनिकः।

॥सिद्धिरस्तु॥
(अनुवर्तते)

Advertisements

एक उत्तर दें

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out / बदले )

Twitter picture

You are commenting using your Twitter account. Log Out / बदले )

Facebook photo

You are commenting using your Facebook account. Log Out / बदले )

Google+ photo

You are commenting using your Google+ account. Log Out / बदले )

Connecting to %s

%d bloggers like this: