VIDEHA

संस्कृतशिक्षणम 6

In Samskrit, sanskrit, संस्कृत on July 18, 2008 at 6:12 am

http://www.videha.co.in/ Ist Maithili Fortnightly e-journal

सुभाषितम्

 

अन्नदानं परं दानं विद्यादनमतः परम्।

अन्नेन क्षणिका तृप्तिः यवज्जीवं च विद्यया॥

दानम करणेतु। अन्नदानं यदि कुर्मः महादानम् इति वदन्तु। यदि अन्नदानं कुर्मः, यदा वुभुक्षा भवति तावत् पर्यन्तम तिष्ठति। यदि विद्यादानम् कुर्मः यावत् जीवन् तिष्ठति।

 

 

कथा

एकः ग्रामः अस्ति। ग्रामे एकः धनिकः अस्ति। सः महान् धनिकः। तस्य सुन्दरं भवनम् अस्ति। पत्नी अस्ति, पुत्राः सन्ति। गृहे सेवकाः सन्ति।कृषिः भूमिः अस्ति। सर्वम् अपि अस्ति। तस्य कापि न्यूनता नास्ति। अतः सः सर्वदा उपविशति।तथा सः धनिकः तिष्ठति। परन्तु आश्चर्यम् नामा तस्य समीपे सर्वम् अपि अस्ति। किन्तु सः धनिकः निद्राम् न प्राप्नोति। रात्रौ निद्रामेव कर्त्तुम् सः न शक्नोति। एकदा सः स्वगृहे उपविष्टवान् आसीत्। चिन्तनं कुर्वन् आसीत। तस्मिनपि दिने तस्य निद्रा न आगता। किमर्थं मम् एवं भवति। इति तस्य मनसि महती चिन्ता उत्पन्नः। तस्मिन्नैव समये दूरतः सः एकम् गीतं श्रुणोति। मधुरं गीतम् आसीत्। कः एवं गायति। इतिः सः न जानाति। तथापि पश्यामि इति चिन्तयित्वा सः गीतस्य ध्वनिम् अनुसरन् अग्रे-अग्रे गच्छति।तस्य गृहतः समीपे एव एकं कुटीरं पश्यति सः। तस्मिन् कुटीरे कश्चन् निर्धनः आसीत्। सः तत्र शयनं कृतवान् आसीत्। शयनं कृत्वा, भित्तिम् आलव्य शयनं कृत्वा उच्चैः गायन् आसीत्। संतोषेन सः गायति। तस्य मुखे संतोषः दृश्यते। तद्दृष्ट्वा धनिकस्य आश्चर्यं भवति।अतः सः प्रश्नं पृच्छति।भो भो मित्रा। भवान् एतावता आनन्देन गायन अस्ति। भवतः आनन्दस्य किम् कारणम् इति पृच्छति। तदा सः निर्धनम् उत्तरं वदति। महाशयः, मम् समीपे धनं किमपि नास्ति। सत्यम्। तत् अहं जानामि। किन्तु अहं बहिः पश्यामि। प्रकृतिं पश्यामि। इदानीं प्रकृतिः कथं शोभते। वसन्तकालः अस्ति। सर्वं पुष्पाणि विकसन्ति। भ्रमराः संचारं कुर्वन्ति। वसन्तकालस्य सौन्दर्यं सर्वत्र दृश्यते। एतद् अस्ति अहं तद् पश्यामि। भवान् वस्तुतः किम् करोति। मम् समीपे तत् नास्ति, एतत् नास्ति,अन्यत् नास्ति। तदैव चिन्तनं करोति। यद्यपि भवतः समीपे बहुः बहुः अस्ति, तथापि भवान् यत् नास्ति तस्य विषये चिन्तनं करोति। अतः दुःखम् अनुभवति। अहं यत् अस्ति तस्य विष्ये चिन्तनं करोमि, अतः अहं सुखं अनुभवामि। एतदैव रहस्यम् इति निर्धनः वदति। तस्य वचनं श्रुत्वा धनिकस्य ज्ञानोदयः भवति। सत्यमेव खलु। वयं सर्वदापि अस्ति। तस्य विषये चिन्तनं कुर्मः चेत्। संतोषम् अनुभवामः। यत् नास्ति तस्य विषयेव चिन्तनं कुर्मः चेत् वयम् अपि दुःखम् अनुभवामः।

 

कथायाः अर्थः ज्ञातः।

 

गीतम्

वर्षाकाले आकाशे,

चटका विचरति आगच्छति।

शीतल समीर,चपला,

मेघ गर्जति तीव्रा,

जल-बिन्दु निपतति,

विद्युत झंझति।

 

सम्भाषणम्

 

अद्य शनिवासरः। श्वः रविवासरः/भानुवासरः।

अद्य कः वासरः। शनिवारः कदा। परश्वः सोमवासरः।

रविवासरः कदा। सोमवासरः कदा। अद्य शनिवासरः।

ह्यः शुक्रवासरः।

परह्यः गुरुवासरः।

गुरुवासरः कदा।

प्रपरश्वः मंगलवासरः।

प्रपरह्यः बुधवासरः।

 

वयं प्रतः काले मिलामः।

किम् वदामः। सुप्रभातम्।

रात्रौ वदामः। शुभ रात्रिः।

अन्य समये। नमोनमः/नमस्कारः/नमस्ते।

यदा दूरवाणी आगच्छति। हरिओम्। इति वदामि-हलो स्थाने।

पुनः वदन्तु।

एवं कृत्वा वदन्तु।

क्षम्यताम्।

आम्।वेंकटरमणन्ः।

कुशलम्। अस्तु। सायंकाले आगच्छामि। पंचवादने आगच्छामि।

अस्तु धन्यवादः। पश्यतु। दंतकूर्चः अस्ति।

दण्डः अस्ति।

अहं दण्डं स्वीकरोमि।

अहं शिक्त्तवर्त्तिकां स्वीकरोमि।

अहम् अङ्कनीं स्वीकरोमि।

अहं लेखनीं स्वीकरोमि।

अहं दूरवाणीं स्वीकरोमि।

अहं करवस्त्रं स्वीकरोमि।

अहं पुस्तकं स्वीकरोमि।

इदानीम् अहं पुस्तकं/लेखनीं/अङ्कनीं/दण्डं/दंतकूर्चं स्थापयामि।

 

पुस्तकं/दण्डं ददामि।

दूरवाणीं/शिक्त्तवर्त्तिकां/ दंतकूर्चं/लेखनीं/ न ददामि।

अहम् अङ्कणीं न ददामि।

अहं पुस्तकं/चमषं न ददामि।

भवती किम्

ददाति।

अहं दंतकूर्चं ददामि।

भवती किम् ददाति।

अहं पुस्तकं ददामि।

भवत्याः नाम् किम्।

अहं वेदवतीं पृच्छामि।

भवतः नाम् किम्।

अहं शुशीलेन्द्रम् पृच्छामि।

रमानन्दः- रमानन्दम्

वित्तकोषम्/विद्यालयम्/मंदिरम्/पुस्तकम्/मालविकाम्/शुशीलाम्/कूपीम्/

घटीम्/अङ्गुलीम्।

अहं भगवतगीतां पठामि।

अहं रामायणं/काव्यं/महाभारतं/सुन्दरकाण्डं/सुभाषितं पठामि।

अहं विद्यालयं गच्छामि।

भवन्तः कुत्र-कुत्र गच्छन्ति।

अहं मुम्बई/तिरुपति नगरं गच्छामि।

अहम् अरण्यं गच्छामि।

माधवः ग्रामं/मथुरां/वाटिकां/पुरीं/दिल्लीं गच्छति।

इदानीं भवन्तः वाक्यं वदन्तु।

कः-कः कुत्र गच्छतेति।

पवित्रा चलचित्रमन्दिरं/इन्द्रलोकं गच्छति।

बालकः आपणं गच्छति।

 

गणेशः विदेशं/नगरं/वनं/वाटिकां/नदीं गच्छति।